notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - यात्रिकयोः संवादः (Samskrit conversation - यात्रिकयोः संवादः)

यात्रिकयोः संवादः

  • यात्रिकः नमस्ते! भवान् अपि बोधगया-दर्शनार्थम् आगतवान् वा?

  • यात्रिकः आम्, मम प्रथमवारम् आगमनम्। बुद्धस्य ध्यानस्थलं द्रष्टुम् इच्छामि।

  • यात्रिकः अत्र आगत्य चित्ते अद्भुता शान्तिः प्राप्यते।

  • यात्रिकः सत्यम्। बुद्धस्य शिक्षाः अद्यापि प्रासङ्गिकाः सन्ति।

  • यात्रिकः तस्य अहिंसा-करुणायाः भावनया अहं प्रभावितः अस्मि।

  • यात्रिकः — एवम्, तस्य अष्टाङ्गमार्गः जीवनस्य प्रत्येकस्मिन् क्षेत्रे उपयोगी अस्ति।

  • यात्रिकः किं भवान् सारनाथम् अपि दृष्टवान्?

  • यात्रिकः — | न, किन्तु गन्तुम् इच्छामि। तत्रैव सः प्रथमं धर्मं प्रवर्तितवान्, खलु!

  • यात्रिकः — एवम्! तत्र गत्वा तस्य ज्ञानम् अधिकं स्पष्टं भवति।

  • यात्रिकः — मन्ये यत् एतादृशी यात्रा केवलम् अटनाय अपितु आत्मज्ञानाय अपि भवति।

  • यात्रिकः — सत्यमुक्तं भवता। एतादृशी यात्रा आत्म-संमेलनस्यापि अवसरं यच्छति।

  • यात्रिकः किं भवान् ध्यानं करोति?

  • यात्रिकः आम्, बुद्धस्य ध्यानमार्गम् अनुसर्तुं यत्नं करोमि।

  • यात्रिकः आगच्छतु, साकं ध्यानं कुर्मःअयं स्थलः ध्यानाय उत्तमः अस्ति।