संस्कृत वार्तालाप - समयः संवादः (Samskrit conversation - समयः संवादः)
समयः संवादः
विद्यार्थी १
— मित्र, अधुना कः समयः अस्ति?विद्यार्थी २
— अधुना प्रातःकाले सप्तवादनम् अस्ति।विद्यार्थी १
— कदा विद्यालयं गच्छावः?विद्यार्थी २
— अष्टवादने विद्यालयं गच्छावः।विद्यार्थी १
— कदा भोजनावकाशः अस्ति?विद्यार्थी २
— मध्याह्ने द्वादशवादने भोजनावकाशः अस्ति।विद्यार्थी १
— सायंकाले कदा गृहम् आगच्छावः?विद्यार्थी २
— चतुर्वादने गृहम् आगच्छावः।विद्यार्थी १
— रात्रौ कदा निद्रां करोषि?विद्यार्थी २
— रात्रौ दशवादने निद्रां करोमि।