संस्कृत वार्तालाप - प्राप्तवान् (Samskrit conversation - प्राप्तवान्)
प्राप्तवान्
कः न प्राप्तवान्?
सिंहः न प्राप्तवान्।
सिंहः किं न प्राप्तवान्?
सिंहः आहारं न प्राप्तवान्।
कीदृशः सिंहः आहारं न प्राप्तवान्?
क्षुधार्तः सिंहः आहारं न प्राप्तवान्।
क्षुधार्तः सिंहः कियत् आहारं न प्राप्तवान्?
क्षुधार्तः सिंहः किञ्चिदपि आहारं न प्राप्तवान्।
क्षुधार्तः सिंहः किं कृत्वा किञ्चिदपि आहारं न प्राप्तवान्?
क्षुधार्तः सिंहः भ्रमणं कृत्वा किञ्चिदपि आहारं न प्राप्तवान् ।