संस्कृत वार्तालाप - कुर्वन्ति (Samskrit conversation - कुर्वन्ति)
कुर्वन्ति
बालकाः किं कुर्वन्ति?
बालकाः उच्चैः कोलाहलं कुर्वन्ति।
बालिकाः किं कुर्वन्ति?
बालिकाः स्वागतं कुर्वन्ति।
के स्वागतं कुर्वन्ति?
सर्वे स्वागतं कुर्वन्ति।
सर्वे कस्याः स्वागतं कुर्वन्ति?
सर्वे शलिन्याः स्वागतं कुर्वन्ति।
सर्वे कथं तस्याः स्वागतं कुर्वन्ति?
सर्वे प्रसन्नमनसा तस्याः स्वागतं कुर्वन्ति।