संस्कृत वार्तालाप - भविष्यति (Samskrit conversation - भविष्यति)
भविष्यति
कः भविष्यति?
उपकारः भविष्यति।
कीदृशः उपकारः भविष्यति?
महान् उपकारः भविष्यति।
कुत्र महान् उपकारः भविष्यति?
पर्यावरणसुरक्षायाः दिशि महान् उपकारः भविष्यति।
केन पर्यावरणसुरक्षायाः दिशि महान् उपकारः भविष्यति?
अनेन सङ्गणकस्य अधिकोपयोगेन पर्यावरणसुरक्षायाः दिशि महान् उपकारः भविष्यति।
किं वर्षा भविष्यति?
आम् , वर्षा भविष्यति।