संस्कृत वार्तालाप - भवति (Samskrit conversation - भवति)
भवति
का संलग्ना भवति?
सा संलग्ना भवति।
सा कुत्र संलग्ना भवति?
सा अध्यापने संलग्ना भवति।
किं कुर्वती सा अध्यापने संलग्ना भवति?
आलपन्ती सा अध्यापने संलग्ना भवति।
कथम् आलपन्ती सा अध्यापने संलग्ना भवति?
सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति।
काभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति?
कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति।