संस्कृत वार्तालाप - रविवासरस्य अवकाशः (Samskrit conversation - रविवासरस्य अवकाशः)
रविवासरस्य अवकाशः
रोहितः
— अस्मिन् रविवासरे कुत्रापि गत्वा रमामहे।नितिनः
— आम्, चिरं गतं अस्माभिः कुत्रापि गमनं न कृतम्।सौरभः
— कुत्र गच्छामः?अमितः
— नदीतीरं गच्छामः। तत्र वायुः अपि सुखदः भवति।रोहितः
— तत्र शान्तिः सौन्दर्यं च अस्ति।नितिनः
— किञ्चित् खाद्यपदार्थम् अपि गृहीत्वा गमिष्यामः।सौरभः
— क्रीडायाः कृते बल्लदण्डं न विस्मर।अमितः
— सङ्गीताय ध्वनियन्त्रम् अपि आनय।रोहितः
— सम्यक्, रविवासरे प्रातः अष्टवादने मेलिष्मामः।नितिनः
— सर्वे समयेन आगच्छन्तु।सौरभः
— अहं वाहनम् आनेष्यामि।अमितः
— अहं सर्वेभ्यः अल्पाहारम् आनेष्यामि।रोहितः
— मित्राणि! रमणीयं भविष्यति।