notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - लाभप्रदाः महासमुद्राः (Samskrit conversation - लाभप्रदाः महासमुद्राः)

लाभप्रदाः महासमुद्राः

  • शिक्षकः — भोः छात्रा:! पृथिव्याः कियत् भागः महासागरेण आवृतः?

  • छात्रः — महोदय! सप्ततिः प्रतिशतं पृथिव्याः भागः समुद्रैः आवृतः अस्ति।

  • शिक्षकः उत्तमम्। महासमुद्राः कथं जनानां हिताय भवन्ति , भवन्तः वक्तुं शक्नुवन्ति?

  • छात्रः ते अन्नम्, औषधं, जीविकायाः स्त्रोत्रम् अपि भवन्ति।

  • शिक्षकः किं ते जलवायुपरिवर्तनस्य अपि कारणं भवन्ति?

  • छात्रः आम्, समुद्राः तापमानं कार्बनडाइऑक्साइड इत्यस्य नियंत्रितं कुर्वन्ति।

  • शिक्षकः किं महासमुद्राः सङ्कटे स्थिताः?

  • छात्रः आम्, मलिनता अतिमत्स्यग्रहणञ्च कारणेन सङ्कटे स्थिताः।

  • शिक्षकः तस्मात् रक्षणम् आवश्यकम्।

  • छात्रः वयम् अपि जनान् जागृयाम।

  • शिक्षकः एषा एव शिक्षा – ज्ञानतः संरक्षणम्।