संस्कृत वार्तालाप - कुत्र - संवादः (Samskrit conversation - कुत्र - संवादः)
कुत्र - संवादः
त्वं कुत्र गच्छसि?
अहं विद्यालयं गच्छामि।
सः कुत्र गच्छति?
जलं पातुं सः नदीं गच्छति।
ते लोकयाने कुत्र गच्छतः?
ते रेलस्थानकं गच्छतः।
भवती कुत्र कार्यं करोति?
अहं चिकित्सालये कार्यं करोमि।
मूढैः कुत्र रत्नसंज्ञा विधीयते?
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।
रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?
रमाबाई उच्चशिक्षार्थम् अमेरीकादेशम् अगच्छत्।