संस्कृत वार्तालाप - किम् - संवादः (Samskrit conversation - किम् - संवादः)
किम् - संवादः
किं त्वं व्यायामं करोषि?
अहं प्रातः सायं च व्यायामं करोमि।
किं तत् भाटकितं गृहम्?
न, अहं भाटं न ददामि।
किम् उपसेचनं तुभ्यं रोचते?
नारिकेल-उपसेचनं मह्यं रोचते।
किं न विद्यते भृत्यः तव गृहे?
न विद्यते भृत्यः मम गृहे।
किं न आगच्छन्ति तत्र पशवः?
नैव, तत्र पशव: न आगच्छन्ति ।
कूर्मस्य किं नाम आसीत्?
कूर्मस्य नाम कम्बुग्रीव: आसीत्।