संस्कृत वार्तालाप - केन - संवादः (Samskrit conversation - केन - संवादः)
केन - संवादः
पृथ्वी केन धार्यते?
पृथ्वी सत्येन धार्यते।
कुर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
कुर्मः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।
रमाबाई केन सह विवाहम् अकरोत्?
रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।
केन सह कलहं कृत्वा नरः सुखी न भवेत्?
मित्रेण सह कलहं कृत्वा नरः सुखी न भवेत्।
रमा केन सह समग्रं भारतम् अभ्रमत्?
रमा स्वज्येष्ठ-भ्रात्रा सह समग्रं भारतम् अभ्रमत्।
शिक्षकः केन लिखति?
शिक्षकः सुधाखण्डेन लिखति।