notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - अयोध्यायां श्रीराममंदिरस्य प्रतिष्ठा (Samskrit conversation - अयोध्यायां श्रीराममंदिरस्य प्रतिष्ठा)

अयोध्यायां श्रीराममंदिरस्य प्रतिष्ठा

  • केशवः — माधव! किं त्वं श्रीराममन्दिरस्य प्रतिष्ठा-महोत्सवम् अपश्यः?

  • माधवः — आं केशव! तत् दृश्यम् अतिभव्यं पावनं आसीत्।

  • केशवः — शताब्दीनां स्वप्नः अधुना साकारः जातः।

  • माधवः एतत् केवलं मन्दिरम् एव न, अपितु श्रद्धायाः प्रतीकः अपि अस्ति।

  • केशवः अयोध्या पुनः दिव्यपुरी अभवत्।

  • माधवः सत्यम् उक्तं त्वया। श्रीरामः इदानीं भव्ये मन्दिरे प्रतिष्ठितः।

  • केशवः सर्वत्र हर्षः जायमानः वर्तते, वातावरणं भक्तिपूर्णं जातम्।

  • माधवः अयम् अस्माकं सनातनधर्मस्य विजयः।

  • केशवः — तदपि शान्त्या न्यायेन च।

  • माधवः आम्। भारतदेशः धैर्येण ऐक्येन इतिहासः रचितः।

  • केशवः — रामराज्यस्य भावना पुनः जाग्रता।

  • माधवः — जय श्रीराम! अयं क्षणः युगान्तरपर्यन्तं प्रेरणां दास्यति।

  • केशवः सत्यम्। असौ क्षणः अमरः।