संस्कृत वार्तालाप - आगच्छति (Samskrit conversation - आगच्छति)
आगच्छति
कः आगच्छति?
जीवः आगच्छति।
कः जीवः आगच्छति?
कोऽपि जीवः आगच्छति।
कदा कोऽपि जीवः आगच्छति?
रात्रौ कोऽपि जीवः आगच्छति।
रात्रौ कोऽपि जीवः कुत्र आगच्छति?
गुहायां रात्रौ कोऽपि जीवः आगच्छति।
कस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति?
एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।